Shree Ganpati Stotra in Sanskrit Lyrics
संकटनाशन श्री गणेशस्तोत्र
श्री गणेशाय नमः नारद उवाच
प्रणम्य शिरसा देवं् गौरीपुत्रं विनायकम्
भक्तावासं स्मरेन्नित्यं आयुः कामार्थ सिद्धये ||१||
प्रथमं वक्रतुंडंच एकदंतं द्वितियकम्
तृतीयं कृष्णपिंगाक्षं गजवक्त्रं चतुर्थकम् ||२||
लम्बोदरं पंचमंच षष्ठं विकटमेवच
सप्तम् विघ्नराजेन्द्रम् धूम्रवर्ण तथाष्टम् ||३||
नवमं भालचन्द्रंच दशमंतु विनायकम्
एकादशं गणपतिं द्वादशं तु गजनानम् ||४||
द्वादश एतानि नामानि त्रिसंध्ययः पठेन्नरः
न च विघ्नभयं तस्य सर्व सिद्धि करं प्रभो ||५||
विद्यार्थी लभते विद्यां धनार्थी लभते
धनम् पुत्रार्थी लभते पुत्रं मोक्षार्थी लभते गतिम् ||६||
जपेद गणपति स्तोत्रं षडभिर्मासैः फलम् लभेत्
संवत्सरेण सिद्धिं च लभते नात्र संशयः ||७||
अष्टभ्यो ब्राह्मणेभ्यश्र्च लिखित्वा यः
समर्पयेत् तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ||८||
इति श्रीनारदपुराणे संकटनाशन श्री गणेशस्तोत्रं संपूर्णम