Surya Kavacham in Sanskrit

Surya Kavacham

Surya Kavacham

॥ सूर्यकवच ॥

श्रीभैरव उवाच

यो देवदेवो भगवान् भास्करो महसां निधिः।
गयत्रीनायको भास्वान् सवितेति प्रगीयते ॥ १॥

तस्याहं कवचं दिव्यं वज्रपञ्जरकाभिधम्।
सर्वमन्त्रमयं गुह्यं मूलविद्यारहस्यकम् ॥ २॥

सर्वपापापहं देवि दुःखदारिद्र्यनाशनम्।
महाकुष्ठहरं पुण्यं सर्वरोगनिवर्हणम् ॥ ३॥

सर्वशत्रुसमूहघ्नं सम्ग्रामे विजयप्रदम्।
सर्वतेजोमयं सर्वदेवदानवपूजितम् ॥ ४॥

रणे राजभये घोरे सर्वोपद्रवनाशनम्।
मातृकावेष्टितं वर्म भैरवानननिर्गतम् ॥ ५॥

 

ग्रहपीडाहरं देवि सर्वसङ्कटनाशनम्।
धारणादस्य देवेशि ब्रह्मा लोकपितामहः ॥ ६॥

विष्णुर्नारायणो देवि रणे दैत्याञ्जिओष्यति।
शङ्करः सर्वलोकेशो वासवोऽपि दिवस्पतिः ॥ ७॥

ओषधीशः शशी देवि शिवोऽहं भैरवेश्वरः।
मन्त्रात्मकं परं वर्म सवितुः सारमुत्तमम् ॥ ८॥

यो धारयेद् भुजे मूर्ध्नि रविवारे महेश्वरि।
स राजवल्लभो लोके तेजस्वी वैरिमर्दनः ॥ ९॥

बहुनोक्तेन किं देवि कवचस्यास्य धारणात्।
इह लक्ष्मीधनारोग्य-वृद्धिर्भवति नान्यथा ॥ १०॥

परत्र परमा मुक्तिर्देवानाअमपि दुर्लभा।
कवचस्यास्य देवेशि मूलविद्यामयस्य च ॥ ११॥

वज्रपञ्जरकाख्यस्य मुनिर्ब्रह्मा समीरितः।
गायत्र्यं छन्द इत्युक्तं देवता सविता स्मृतः ॥ १२॥

माया बीजं शरत् शक्तिर्नमः कीलकमीश्वरि।
सर्वार्थसाधने देवि विनियोगः प्रकीर्तितः ॥ १३॥

ओं अं आं इं ईं शिरः पातु ओं सूर्यो मन्त्रविग्रहः।
उं ऊं ऋं ॠं ललाटं मे ह्रां रविः पातु चिन्मयः ॥ १४॥

ऌं ॡं एं ऐं पातु नेत्रे ह्रीं ममारुणसारथिः।
ओं औं अं अः श्रुती पातु सः सर्वजगदीश्वरः ॥ १५॥

कं खं गं घं पातु गण्डौ सूं सूरः सुरपूजितः।
चं छं जं झं च नासां मे पातु या^र्ं अर्यमा प्रभुः ॥ १६॥

टं ठं डं ढं मुखं पायाद् यं योगीश्वरपूजितः।
तं थं दं धं गलं पातु नं नारायणवल्लभः ॥ १७॥

पं फं बं भं मम स्कन्धौ पातु मं महसां निधिः।
यं रं लं वं भुजौ पातु मूलं सकनायकः ॥ १८॥

शं षं सं हं पातु वक्षो मूलमन्त्रमयोइ ध्रुवः।
ळं क्षः कुक्ष्सिं सदा पातु ग्रहाथो दिनेश्वरः ॥ १९॥

ङं ञं णं नं मं मे पातु पृष्ठं दिवसनायकः।
अं आं इं ईं उं ऊं ऋं ॠं नाभिं पातु तमोपहः ॥ २०॥

ऌं ॡं एं ऐं ओं औं अं अः लिङ्गं मेऽव्याद् ग्रहेश्वरः।
कं खं गं घं चं छं जं झं कटिं भानुर्ममावतु ॥ २१॥

टं ठं डं ढं तं थं दं धं जानू भास्वान् ममावतु।
पं फं बं भं यं रं लं वं जङ्घे मे।आव्याद् विभाकरः ॥ २२॥

शं षं सं हं ळं क्षः पातु मूलं पादौ त्रयितनुः।
ङं ञं णं नं मं मे पातु सविता सकलं वपुः ॥ २३॥

सोमः पूर्वे च मां पातु भौमोऽग्नौ मां सदावतु।
बुधो मां दक्षिणे पातु नैऋत्या गुररेव माम् ॥ २४॥

पश्चिमे मां सितः पातु वायव्यां मां शनैश्चरः।
उत्तरे मां तमः पायादैशान्यां मां शिखी तथा ॥ २५॥

ऊर्ध्वं मां पातु मिहिरो मामधस्ताञ्जगत्पतिः।
प्रभाते भास्करः पातु मध्याह्ने मां दिनेश्वरः ॥ २६॥

सायं वेदप्रियः पातु निशीथे विस्फुरापतिः।
सर्वत्र सर्वदा सूर्यः पातु मां चक्रनायकः ॥ २७॥

रणे राजकुले द्यूते विदादे शत्रुसङ्कटे।
सङ्गामे च ज्वरे रोगे पातु मां सविता प्रभुः ॥ २८॥

ओं ओं ओं उत ओंउॐ ह स म यः सूरोऽवतान्मां भयाद्।
ह्रां ह्रीं ह्रुं हहहा हसौः हसहसौः हंसोऽवतात् सर्वतः।
सः सः सः सससा नृपाद्वनचराच्चौराद्रणात् सङ्कटात्।
पायान्मां कुलनायकोऽपि सविता ओं ह्रीं ह सौः सर्वदा ॥ २९॥

द्रां द्रीं द्रूं दधनं तथा च तरणिर्भाम्भैर्भयाद् भास्करो
रां रीं रूं रुरुरूं रविर्ज्वरभयात् कुष्ठाच्च शूलामयात्।
अं अं आं विविवीं महामयभयं मां पातु मार्तण्डको
मूलव्याप्ततनुः सदावतु परं हंसः सहस्रांशुमान् ॥ ३०॥

इति श्रीकवच्चं दिव्यं वज्रपञ्जरकाभिधम्।
सर्वदेवरहस्यं च मातृकामन्त्रवेष्टितम् ॥ ३१॥

महारोगभयघ्नं च पापघ्नं मन्मुखोदितम्।
गुह्यं यशस्करं पुण्यं सर्वश्रेयस्करं शिवे ॥ ३२॥

लिखित्वा रविवारे तु तिष्ये वा जन्मभे प्रिये।
अष्टगन्धेन दिव्येन सुधाक्षीरेण पार्वति ॥ ३३॥

अर्कक्षीरेण पुण्येन भूर्जत्वचि महेश्वरि।
कनकीकाष्ठलेखन्या कवचं भास्करोदये ॥ ३४॥

श्वेतसूत्रेण रक्तेन श्यामेनावेष्टयेद् गुटीम्।
सौवर्णेनाथ संवेष्ठ्य धारयेन्मूर्ध्नि वा भुजे ॥ ३५॥

रणे रिपूञ्जयेद् देवि वादे सदसि जेष्यति।
राजमान्यो भवेन्नित्यं सर्वतेजोमयो भवेत् ॥ ३६॥

कण्ठस्था पुत्रदा देवि कुक्षिस्था रोगनाशिनी।
शिरःस्था गुटिका दिव्या राकलोकवशङ्करी ॥ ३७॥

भुजस्था धनदा नित्यं तेजोबुद्धिविवर्धिनी।
वन्ध्या वा काकवन्ध्या वा मृतवत्सा च याङ्गना ॥ ३८॥

कण्ठे सा धारयेन्नित्यं बहुपुत्रा प्रजायये।
यस्य देहे भवेन्नित्यं गुटिकैषा महेश्वरि ॥ ३९॥

महास्त्राणीन्द्रमुक्तानि ब्रह्मास्त्रादीनि पार्वति।
तद्देहं प्राप्य व्यर्थानि भविष्यन्ति न संशयः ॥ ४०॥

त्रिकालं यः पठेन्नित्यं कवचं वज्रपञ्जरम्।
तस्य सद्यो महादेवि सविता वरदो भवेत् ॥ ४१॥

अज्ञात्वा कवचं देवि पूजयेद् यस्त्रयीतनुम्।
तस्य पूजार्जितं पुण्यं जन्मकोटिषु निष्फलम् ॥ ४२॥

शतावर्तं पठेद्वर्म सप्तम्यां रविवासरे।
महाकुष्ठार्दितो देवि मुच्यते नात्र संशयः ॥ ४३॥

निरोगो यः पठेद्वर्म दरिद्रो वज्रपञ्जरम् ।
लक्ष्मीवाञ्जायते देवि सद्यः सूर्यप्रसादतः ॥ ४४॥

भक्त्या यः प्रपठेद् देवि कवचं प्रत्यहं प्रिये।
इह लोके श्रियं भुक्त्वा देहान्ते मुक्तिमाप्नुयात् ॥ ४५॥

इति श्रीरुद्रयामले तन्त्रे श्रीदेविरहस्ये
वज्रपञ्जराख्यसूर्यकवचनिरूपणं त्रयस्त्रिंशः पटलः ॥ ३३ ॥

You may also like...

Leave a Reply

Your email address will not be published. Required fields are marked *